|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.72. अध्यायः 072
Mahabharata - Vana Parva - Chapter Topics
दमयन्तीप्रेषितया केशिन्या बाहुकेन संभाष्य दमयन्त्यै संभाषणकालिकबाहुकविकारादिनिवेदनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
दमयन्त्युवाच। 3-72-0x(1957)(18658)
गच्छ केशिनि जानीहि क एष रथवाहकः।
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥ 3-72-1(18659)
अभ्येत्य कुशलं भद्रे मृदुपूर्वंसमाहिता।
पृच्छेथाः पुरुषे ह्येनं यथातत्त्वमनिन्दिते ॥ 3-72-2(18660)
अत्र मे महती शङ्का भवेदेष नलो नृपः।
यथाच मनसस्तुष्टिर्हृदयस्य च निर्वृतिः ॥ 3-72-3(18661)
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा।
प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते ॥ 3-72-4(18662)
एवं समाहिता गत्वा दूती बाहुकमब्रवीत्।
दमयन्त्यपि कल्याणी प्रासादस्थाऽनव्वैक्षत ॥ 3-72-5(18663)
केशिन्युवाच। 3-72-6x(1958)
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्।
दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥ 3-72-6(18664)
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः।
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥ 3-72-7(18665)
बाहुक उवाच। 3-72-8x(1959)
श्रुतः स्वयंवरो राज्ञा कोसलेन महात्मना।
द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात् ॥ 3-72-8(18666)
श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभिः।
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥ 3-72-9(18667)
केशिन्युवाच। 3-72-10x(1960)
अथ योसौ तृतीयो वः स कुतः कस्य वा पुनः।
त्वं च कस्य कथं चेदंत्वयि कर्म समाहितम् ॥ 3-72-10(18668)
बाहुक उवाच। 3-72-11x(1961)
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रतः।
स नले विद्रुते भद्रेभागस्वरिमुपस्थितः ॥ 3-72-11(18669)
अहमप्यश्वकुशलः सूतत्वे च प्रतिष्ठितः।
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥ 3-72-12(18670)
केशिन्युवाच। 3-72-13x(1962)
अथ जानाति वार्ष्णेयः क्वनु राजा नलो गतः।
कथं च त्वयि वा तेन कथितं स्यात्तु बाहुक ॥ 3-72-13(18671)
बाहुक उवाच। 3-72-14x(1963)
इहैव पुत्रौ निक्षिप्य नलस्य प्रियदर्शनौ।
गतस्ततो यथाकामं नैष जानाति नैषधम् ॥ 3-72-14(18672)
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि।
गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ॥ 3-72-15(18673)
आत्मैव तु नलं वेद या चास्य तदनन्तरा।
न हि वै स्वानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥ 3-72-16(18674)
केशिन्युवाच। 3-72-17x(1964)
योसावयोध्यां प्रथमं गतोसौ ब्राह्मणस्तदा।
इमानि नारीवाक्यानि कथयानः पुनःपुनः ॥ 3-72-17(18675)
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम।
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ 3-72-18(18676)
सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी।
दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता ॥ 3-72-19(18677)
तस्या रुदनत्याः सततं तेन दुःखेन पार्थिव।
प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च ॥ 3-72-20(18678)
तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते।
तदेव वाक्यं वैदर्भी श्रोतुमिच्छन्त्यनिन्दिता ॥ 3-72-21(18679)
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल।
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥ 3-72-22(18680)
बृहदश्व उवाच। 3-72-23x(1965)
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन।
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥ 3-72-23(18681)
स निग्राह्यात्मनो दुःखं दह्यमानो महीपतिः।
बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ॥ 3-72-24(18682)
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥ 3-72-25(18683)
रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन।
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥ 3-72-26(18684)
विषमस्थेन मूढेन परिभ्रष्टसुखेन च।
यत्सा तेन परित्यक्ता तत्रन क्रोद्धुमर्हति ॥ 3-72-27(18685)
प्राणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ 3-72-28(18686)
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथाविधम्।
राज्यभ्रष्टं श्रिया हीनं क्षिधितं व्यसनाप्लुतम् ॥ 3-72-29(18687)
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुर्मनाः।
न बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥ 3-72-30(18688)
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्।
तत्सर्वं कथितं चैव विकारं तस्य चैव तम् ॥ 3-72-31(18689)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|